|| दशरथ कृत शनैश्चर स्तोत्रम् ||
अस्य श्री शनैश्चर स्तोत्रस्य दशरथ ऋषिः श्री शनैश्चरो देवता त्रिष्टुप्छन्दः शनैश्चरप्रीत्यर्थं जपे विनियोगः ।
|| दशरथ उवाच ||
कोणोऽन्तको रौद्रयमोऽथ बभ्रुः
कृष्णः शनिः पिंगलमन्दसौरिः ||
नित्यं स्मृतो यो हरते च पीडां
तस्मै नमः श्री रविनन्दनाय || १ ||
सुरासुराः किंपुरुषोरगेन्द्रा
गन्धर्वविद्याधरपन्नगाश्च ||
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्री रविनन्दनाय || २ ||
नरा नरेन्द्राः पशवो मृगेन्द्रा
वन्याश्च ये कीटपतङ्गमृङ्ग ||
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्री रविनन्दनाय || ३ ||
देशाश्च दुर्गाणि वनानि यत्र
सेनानिवेशाः पुरपत्तनानि ||
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्री रविनन्दनाय || ४ ||
तिलैर्यवैर्माषगुडान्नदानै
र्लोहेन नीलाम्बरदानतो वा ||
प्रीणाति मन्त्रैर्निजवासरे च
तस्मै नमः श्री रविनन्दनाय || ५ ||
प्रयागकूले यमुनातटे च
सरस्वतीपुण्यजले गुहायाम् ||
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्
तस्मै नमः श्री रविनन्दनाय || ६ ||
अन्यप्रदेशात्स्वगृहं प्रविष्ट
स्तदीयवारे स नरः सुखी स्यात् ||
गृहाद्गतो यो न पुनः प्रयाति
तस्मै नमः श्री रविनन्दनाय || ७ ||
स्रष्टा स्वयंभूर्भुवनत्रयस्य
त्राता हरिशो हरते पिनाकी ||
एकस्त्रिधा ऋग्यजुःसाममूर्ति
स्तस्मै नमः श्री रविनन्दनाय || ८ ||
शन्यष्टकं यः प्रयतः प्रभाते
नित्यं सुपुत्रैः पशुबान्धवैश्च ||
पठेत्तु सौख्यं भुवि भोगयुक्तः
प्राप्नोति निर्वाणपदं तदन्ते || ९ ||
कोणस्थः पिंगलो बभ्रुः
कृष्णो रौद्राऽन्तको यमः ||
सौरिः शनैश्चरो मन्दः
पिप्पलादेन संस्तुतः || १० ||
एतानि दश नामानि प्रातरुत्थाय यः पठेत् ||
शनैश्चरकृता पीडा न कदाचिद्भविष्यति || ११ ||
|| इति श्री शनैश्चरस्तोत्रं सम्पूर्णम् ||